वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: अप्रतिरथ ऐन्द्रः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

क꣣ङ्काः꣡ सु꣢प꣣र्णा꣡ अनु꣢꣯ यन्त्वेना꣣न्गृ꣡ध्रा꣢णा꣣म꣡न्न꣢म꣣सा꣡वस्तु꣣ से꣡ना꣢ । मै꣡षां꣢ मोच्यघहा꣣र꣢श्च꣣ ने꣢न्द्र꣣ व꣡या꣢ꣳस्येनाननु꣣सं꣡य꣢न्तु꣣ स꣡र्वा꣢न् ॥१८६४

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना । मैषां मोच्यघहारश्च नेन्द्र वयाꣳस्येनाननुसंयन्तु सर्वान् ॥१८६४

मन्त्र उच्चारण
पद पाठ

क꣣ङ्काः꣢ । सु꣣प꣢र्णाः । सु꣣ । पर्णाः꣢ । अ꣡नु꣢꣯ । य꣣न्तु । एनान् । गृ꣡ध्रा꣢꣯णाम् । अ꣡न्न꣢꣯म् । अ꣣सौ꣢ । अ꣣स्तु । से꣡ना꣢꣯ । मा । ए꣣षाम् । मोचि । अघहारः꣢ । अ꣣घ । हारः꣢ । च꣣ । न꣢ । इ꣣न्द्र । व꣡या꣢꣯ꣳसि । ए꣣नान् । अ꣣नु꣡संय꣢न्तु । अ꣣नु । सं꣡य꣢꣯न्तु । स꣡र्वा꣢꣯न् ॥१८६४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1864 | (कौथोम) 9 » 3 » 6 » 1 | (रानायाणीय) 21 » 1 » 6 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में शत्रुसेना के समूलोच्छेद का विषय है।

पदार्थान्वयभाषाः -

(सुपर्णाः) सुदृढ़ पङ्खोंवाली (कङ्काः) चीलें (एनान्) इन शत्रुओं का (अनुयन्तु) पीछा करें। (असौ सेना) वह शत्रु-सेना (गृध्राणाम्) गिद्धों का (अन्नम् अस्तु) भोजन बने। हे (इन्द्र) सेनापतितुल्य जीवात्मन् ! (एषाम्) इन शत्रुओं में से (अघहारः च न) पाप का भागी कोई भी (मा मोचि) जिन्दा न छूटे। (एनान् सर्वान्) इन सबका (वयांसि) माँसभक्षी पक्षी (अनु संयन्तु) पीछा करें, इन्हें खा जाएँ ॥१॥

भावार्थभाषाः -

जैसे बाह्य युद्ध में मारे गये शत्रु गिद्ध आदि माँसभक्षक पक्षियों से समाप्त किये जाते हैं, वैसे ही आन्तरिक देवासुरसङ्ग्राम में जीवात्मा से मारे गये काम-क्रोध आदि शत्रुओं का नाम भी न बचे, ऐसा प्रयत्न मनुष्यों को करना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ शत्रुसेनायाः समूलोच्छेदविषयं प्राह।

पदार्थान्वयभाषाः -

(सुपर्णाः) दृढपर्णाः (कङ्काः) चिल्लपक्षिणः (एनान्) इमान् शत्रून् (अनु यन्तु) अनुगच्छन्तु। (असौ सेना) शत्रूणां सा चमूः, (गृध्राणाम्) एतन्नाम्नां पक्षिणाम् (अन्नम् अस्तु) भोजनं भवतु। हे (इन्द्र) सेनापतिरिव वीर जीवात्मन् ! (एषाम्) शत्रूणाम् (अघहारः च न) पापहारकः कश्चिदपि (मा मोचि) न मुच्यताम्। (एनान् सर्वान्) इमान् निःशेषानपि (वयांसि) क्रव्यादाः पक्षिणः (अनु संयन्तु) अनुप्राप्नुवन्तु भक्षयन्त्वित्यर्थः ॥१॥

भावार्थभाषाः -

यथा बाह्ये रणे मारिताः शत्रवो गृध्रादिभिर्मांसभक्षकैः पक्षिभिः निःशेषाः क्रियन्ते तथैवाभ्यन्तरे देवासुरसंग्रामे जीवात्मना हतानां कामक्रोधादीनां सपत्नानां यथा नामापि च शिष्येत तथा मनुष्यैः प्रयतनीयम् ॥१॥